|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.333. अध्यायः 333
Mahabharata - Shanti Parva - Chapter Topics
शुकेन व्यासाज्ञया तत्वजिज्ञासया मिथिलास्थं जनकंप्रत्यग्गभनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-333-0x(6543)(78920)
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्।
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः॥ 12-333-1(78921)
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे।
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो॥ 12-333-2(78922)
श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम्।
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि॥ 12-333-3(78923)
पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः।
योगशास्त्रं च निखिलं कापिलं चैव भारत॥ 12-333-4(78924)
स तं ब्राह्नया श्रियः युक्तं ब्रह्मतुल्यपराक्रमम्।
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम्॥ 12-333-5(78925)
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्।
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरः॥ 12-333-6(78926)
पितुर्नियोगादगमन्मैथिलं जनकं नृपम्।
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्॥ 12-333-7(78927)
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः।
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै॥ 12-333-8(78928)
आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा।
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः॥ 12-333-9(78929)
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे।
स्यातव्यं च वशे तस्य स ते छेत्स्यति संशयम्॥ 12-333-10(78930)
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः।
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया॥ 12-333-11(78931)
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः।
पद्भ्यां शक्तोन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम्॥ 12-333-12(78932)
स गिरींश्चाप्यतिक्रम्य नदीतीर्थसरांसि च।
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च॥ 12-333-13(78933)
मेहोर्हरेश्च द्वे वर्षे वर्षं हैमवतं ततः।
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत्॥ 12-333-14(78934)
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्।
आर्यावर्तमिमं देशमाजगाम महामुनिः॥ 12-333-15(78935)
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्।
अध्वानं सोऽतिचक्राम खचरः खे पतविव॥ 12-333-16(78936)
पत्तनानि च रम्याणि स्फीतानि नगराणि च।
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति॥ 12-333-17(78937)
उद्यावानि च रम्याणि तथैवायतनानि च।
पुण्यानि चैव तीर्थानि सोत्यक्रामदथाध्वगः॥ 12-333-18(78938)
सोचिरेणैव कालेन विदेहानाससाद ह।
रक्षितान्धर्मराजेन जनकेन महात्मना॥ 12-333-19(78939)
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्।
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान्॥ 12-333-20(78940)
स्फीतांश्च शालियवसर्हंससारससेवितान्।
पद्मिनीभिश्च शतशः श्रीमतीभिरलकृतान्॥ 12-333-21(78941)
स विदेहानतिक्रम्य समृद्धजनसेवितान्।
मिथिलोपवनं रम्यमाससाद समृद्धिमत्॥ 12-333-22(78942)
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्।
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः॥ 12-333-23(78943)
मनसा तं बहन्भारं तमेवार्थं विचिन्तयन्।
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह॥ 12-333-24(78944)
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः।
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह॥ 12-333-25(78945)
स राजमार्गमासाद्य समृद्धजनकसंकुलम्।
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह॥ 12-333-26(78946)
तत्रापि द्वारपलास्तमुग्रवाचा न्यषेधयन्।
तथैव च शुक्रस्तत्र निर्मन्युः समतिष्ठत॥ 12-333-27(78947)
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः।
प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात्॥ 12-333-28(78948)
तेषां तु द्वारपालानामेकः शोकसमन्वितः।
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम्॥ 12-333-29(78949)
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः।
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः॥ 12-333-30(78950)
तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत्।
छायायामातपे चैव समदर्शी समद्युतिः॥ 12-333-31(78951)
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः।
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः॥ 12-333-32(78952)
तत्रान्तः पुरसंबद्धं महच्चैत्ररथोपमम्।
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्॥ 12-333-33(78953)
तं दर्शयित्वा स शुकं मन्त्री जनकमुत्तमम्।
अर्हमासनमादिश्य निश्चक्रामः ततः पुनः॥ 12-333-34(78954)
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः।
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः॥ 12-333-35(78955)
संलापालापकुशला नृत्तगीतविशारदाः।
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः॥ 12-333-36(78956)
भावोपचारकुशला भावज्ञाः सत्वकोविदाः।
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन्॥ 12-333-37(78957)
पाद्यादीनि प्रतिग्राह्य पूजया परयाऽर्चयन्।
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन्॥ 12-333-38(78958)
तस्य भुक्तवतस्तात तदन्तः पुरकाननम्।
सुरम्यं दर्शयामासुरेकैकश्येन भारत॥ 12-333-39(78959)
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम्।
उदारसत्वं सत्वज्ञाः स्त्रियः पर्यचरंस्तथा॥ 12-333-40(78960)
आरणेयस्तु शुद्धात्मा निःसंदेहस्त्रिकर्मकृत्।
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति॥ 12-333-41(78961)
तस्मै शय्यासनं दिव्यं वरार्हः रत्नभूषितम्।
स्पर्ध्यास्तरणसंकीर्णं ददुस्ताः परमस्त्रियः॥ 12-333-42(78962)
पादशौचं तु कृत्वैव शुक्रः संध्यामुपास्य च।
निषसादासने पुण्ये तमेवार्थं विचिन्तयन्॥ 12-333-43(78963)
पूर्वरात्रे तु तत्रासौ हुत्वा ध्यानपरायणः।
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः। 12-333-44(78964)
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्।
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत॥ 12-333-45(78965)
अनेन विधिना कर्ष्णिस्तदहः शेषमच्युतः।
तां च रात्रिं नृपकुले वर्तयामास भारत॥ ॥ 12-333-46(78966)
इति श्रीमन्महाभारते शान्तिप्रवणि मोक्षधर्मपर्वणि त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः॥ 333॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-333-1 मोक्षं मोक्षशास्त्रम्। अनुचिन्त्य उपादेयत्वेन ज्ञात्वा॥ 12-333-3 धर्मांश्च त्रिविधानपीति ध. पाठः॥ 12-333-4 शुको वेदविदांवर इति ट. ड. पाठः॥ 12-333-5 मोक्षविद्याविशारदमिति ट. पाठः॥ 12-333-6 मोक्षार्थं मोक्षशास्त्रार्थं। मोक्षार्थं निखिलेन विशेषत इति ट. ड. थ. पाठः॥ 12-333-14 मेरोर्वर्षमिलावृतम्। हरेवंर्षं हरिवर्षाख्यम्। हैमवन्तं वर्षं किंपुरुषाख्यम्॥ 12-333-24 तं भारं जिज्ञासाख्यम्। अर्थं मोक्षम्॥ 12-333-28 नोपैति च तथा रुषमिति ड. ध. पाठः॥ 12-333-37 कालोपचारकुशला इति ड. पाठः॥ 12-333-41 आरणेयः अरणिजः शुकः॥ 12-333-42 हेवार्हं रत्नभूषितमिति झ. पाठः॥ 12-333-44 भूत्वा ध्यानपरायण इति झ. पाठः। अर्धरात्रे यथान्यायमिति ध. पाठः॥ 12-333-46 कार्ष्णिः शुकः। अच्युतो धैर्यादिति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|